टेंबे स्वामी कृत औदुंबर पादुकास्तोत्रम्

🕉🕉🕉🕉🕉🕉🕉🕉🕉🕉🕉
*🔹टेंबे स्वामी कृत औदुंबर पादुकास्तोत्रम्🔹*

*वन्दे वाङ्मनसातीतं निर्गुणं सगुणं गुरुम्। दत्तमात्रेयमानन्दकन्दं भक्तेष्टपूरकम्।।१।।*

*नमामि सततं दत्तमौदुम्बरनिवासिनम्। यतीन्द्ररूपं च सदा निजानन्दप्रबोधनम्।।२।।*

*कृष्णा यदग्रे भुवनेशानी विद्यानिधिस्तथा । औदुम्बराः कल्पवृक्षाः सर्वतः सुखदा सदा।।३।।*

*भक्तवृन्दान्दर्शनतः पुरुषार्थचतुष्टयम्। ददाति भगवान् भूमा सच्चिदानन्दविग्रहः।।४।।*

*जागर्ति गुप्तरूपेण गोप्ता ध्यानसमाधितः। ब्रह्मवृन्दं ब्रह्मसुखं ददाति समदृष्टितः।।५।।*

*कृष्णा तृष्णाहरा यत्र सुखदा भुवनेश्वरी। यत्र मोक्षदराड्दत्तपादुका तां नमाम्यहम्।।६।।*

*पादुकारूपियतिराण्नरसिंहसरस्वती। राजते राजराजश्रीदत्तश्रीपादवल्लभः।।७।।*

*नमामि गुरुमूर्ते तं तापत्रयहरं हरिम्। आनंदमयमात्मानं नवभक्त्या सुखप्रदम्।।८।।*

*करवीरस्थविदुषमूढपुत्रं विनिन्दितम्। छिन्नजिह्वं बुधं चक्रे तद्वन्मयि कृपां कुरु।।९।।*

*।। इति श्री. प. प. श्रीवासुदेवानन्दसरस्वतीविरचितं औदुम्बरपादुकास्तोत्रं संपूर्णम् ।।*

🕉🕉🕉🕉🕉🕉🕉🕉🕉🕉🕉

टिप्पण्या