ll श्रीगंगास्तोत्रम् ll
देवि सुरेश्वरि भगवति गंगे
त्रिभुवनतारिणि तरलतरंगे ।
शंकरमौलिविहारिणि विमले
मम मतिरास्तां तव पदकमले॥१॥
जय गंगे जय मातर्गंगे ।
जय जय जान्हवी करुणापाङ्गे ॥ध्रु.॥
भागीरथि सुखदायिनि मात-
स्तव जलमहिमा निगमे ख्यात: ।
नाहं जाने तव महिमानं
पाहि कृपामयि मामज्ञानम् ॥२॥
हरिपदपाद्यतरंगिणि गंगे हिमविधुमुक्ताधवलतरंगे ।
दूरीकुरु मम दुष्कृतिभारं
कुरु कृपया भवसागरपारम् ॥३॥
तव जलममलं येन निपीतं
परमपदं खलु तेन गृहीतम् ।
मातर्गंगे त्वयि यो भक्त:
किल तं द्रष्टुं न यम: शक्त: ॥४॥
पतितोद्धारिणि जान्हवि गंगे
खण्डितगिरिवरमण्डितभंगे ।
भीष्मजननि हे मुनिवरकन्ये पतितनिवारिणि त्रिभुवनधन्ये ॥५॥
कल्पलतामिव फलदां लोके
प्रणमति यस्त्वां न पतति शोके ।
पारावारविहारिणि गंगे
विमुखयुवतिकृततरलापांगे ।।६।।
तव चेन्मात: स्रोत: स्नात:
पुनरपि जठरे सोsपि न जात: ।
नरकनिवारिणि जान्हवि गंगे
कलुषविनाशिनि महिमोत्तुंगे ॥७॥
पुनरसदंगे पुण्यतरंगे
जय जय जान्हवि करुणापाङ्गे ।
इन्द्रमुकुट मणिराजितचरणे
सुखदे शुभदे भृत्यशरण्ये ॥८॥
रोगं शोकं तापं पापं
हर मे भगवति कुमतिकलापम् ।
त्रिभुवनसारे वसुधाहारे
त्वमसि गतिर्मम खलु संसारे ॥९॥
अलकानन्दे परमानन्दे
कुरु करुणामयि कातरवन्द्ये ।
तव तटनिकटे यस्य निवास:
खलु वैकुण्ठे तस्य निवास: ॥१०॥
वरमिह: नीरे कमठो मीन:
किं वा तीरे शरट: क्षीण: ।
अथवा श्वपचो मलिनो दीन-
स्तव न हि दूरे नृपतिकुलीन: ॥११॥
भो भुवनेश्वरि पुण्ये धन्ये
देवि द्रवमयि मुनिवरकन्ये ।
गंगास्तवमिमममलं नित्यं
पठति नरो य: स जयति सत्यम् ॥१२॥
येषां हृदये गंगाभक्ति-
स्तेषां भवति सदा सुख मुक्ति:।
मधुराकान्तापञ्झटिकाभि:
परमानन्द कलितललिताभि: ॥१३॥
गंगास्तोत्रमिदं भवसारं
वांछितफलदं विमलं सारम् ।
शंकरसेवक शंकररचितं
पठति सुखी स्तव इति च समाप्त: ॥१४॥
जय गंगे जय मातर्गंगे।
जय जय जान्हवी करुणापाङ्गे ।।
॥ इति श्रीमदाद्य शंकराचार्य विरचितं श्रीगंगास्तोत्रम् ॥
टिप्पण्या
टिप्पणी पोस्ट करा
धन्यवाद 🙏