श्री. प.प.श्रीवासुदेवानंदसरस्वती विरचितं श्रीलक्ष्मीनारायणस्तोत्रम्

❄❄❄❄❄🏵❄❄❄❄❄
                *लक्ष्मीनारायण स्तोत्रम्*

*श्रीनिवास जगन्नाथ श्रीहरे भक्तवत्सल । लक्ष्मीपते नमस्तुभ्यं त्राहि मां भवसागरात् ॥ १ ॥*

*राधारमण गोविंद भक्तकामप्रपूरक । नारायण नमस्तुभ्यं त्राहि मां भवसागरात् ॥ २ ॥*

*दामोदर महोदार सर्वापत्तिनिवारण । हृषीकेश नमस्तुभ्यं त्राहि मां भवसागरात् ॥ ३ ॥*

*गरुडध्वजवैकुंठनिवासिन्केश । वाच्युतजनार्दन नमस्तुभ्यं त्राहि मां भवसागरात् ॥ ४ ॥*

*शंखचक्रगदापद्मधर श्रीवत्सलांछन । मेघश्याम नमस्तुभ्यं त्राहि मां भवसागरात् ॥ ५ ॥*

*त्वं माता त्वं पिता बंधुः सद्गुरुस्त्वं दयानिधिः । त्वत्तोऽन्यो न परो देवस्त्राहि मां भवसागरात् ॥ ६ ॥*

*न जाने दानधर्मादि योगं यागं तपो जपम् । त्वं केवलं कुरु दयां त्राहि मां भवसागरात् ॥ ७ ॥*

*न मत्समो यद्यपि पापकर्ता न त्वतसमोऽथापि हि पापहर्ता । विज्ञापितं त्वेतदशेषसाक्षिन् मामुद्धरार्तं पतितं तवाग्रे ॥ ८ ॥*

 *इति श्री. प.प.श्रीवासुदेवानंदसरस्वती विरचितं श्रीलक्ष्मीनारायणस्तोत्रम् संपूर्णम्।*

❄❄❄❄❄🏵❄❄❄❄❄

टिप्पण्या